शिखिपिच्छकृतध्वजावचूड-
क्षणसाशङ्कविवर्तमानभोगाः ।
यमपाशवदाशुबन्धनाय
न्यपतन्वृष्णिगणेषु लेलिहानाः ॥

मल्लिनाथः शिखीति ॥ पुनःपुनर्लेहनशीला लेलिहानाः सः । लिहेर्यलगन्तात्ताच्छील्ये चानश्प्रत्यये `गुणो यङ्लुकोः` (७४।८२) इत्यभ्यासस्य गुणः । `लिहेलिटः कानजि ति वल्लभः । तदानीमभ्यासगुणानुपपत्तिः भूतार्थासंगतिश्च शिखिपिच्छैर्मयूरबर्हैः कृतेभ्यो ध्वजानामवचूडेभ्यः प्रकीर्णेभ्यः क्षणं साशङ्काः जीवन्मयूरभ्रान्त्या सभयाः अत एव विवर्तमानकायाः व्यावृतदेहाः सन्तः आशु वृष्णिगणेषु यादवसङ्घेषु बन्धनाय यमपाशैस्तुल्यं यमपाशवत् कालपाशवदित्युपमा । न्यपतन् । निपत्य बबन्धुरित्यर्थः
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
शि खि पि च्छ कृ ध्व जा चू
क्ष सा ङ्क वि र्त मा भो गाः
पा दा शु न्ध ना
न्य न्वृ ष्णि णे षु ले लि हा नाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.