कृतकेशविडम्बनैर्विहायो
विजयं तत्क्षणमिच्छुभिश्छलेन ।
अमृताग्रभुवः पुरेव पुच्छं
बडवाभर्तुरवारि काद्रवेयैः ॥

मल्लिनाथः कृतेति ॥ कृतकेशविडम्बनैः कााद्विहितकेशानुकारैः छलेन कपटेन विजयमिच्छुभिरभिलाषुकैः । `विन्दुरिच्छुः` (अष्टाध्यायी ३.२.१६९ ) इति उप्रत्ययान्तो निपातितः । `न लोका-` (अष्टाध्यायी २.३.६९ ) इत्यादिना षष्ठीप्रतिषेधः । विहाय आकाशं तत्क्षणं काद्रवेयैः कद्रुपुत्रैः फणीन्द्रैः । `स्त्रीभ्यो ढक्` (अष्टाध्यायी ४.१.१२० ) इति ढक् । पुरा पूर्वमिव अमृताग्रभुवोऽमृताग्रस्य वडवाभर्तुः उच्चैःश्रवसः पुच्छं अवारि [* उभशब्दस्थाने उभयशब्दप्रयोगसिद्धिस्तु रघुवंशे `शय्यां जहत्युभयपक्षविनीतनिद्राः` (५।७२ ) इति श्लोकस्य सञ्जीविन्यां सम्यक्प्रतिपादिता वरीवर्ति । ]&#३२; विंशः सर्गः] आवृतम् । वृतेः कर्मणि लुङ् । पुरा किल कद्रुविनतयोः कश्यपभार्ययोरुच्चैःश्रवसः पुच्छस्य काष्र्ण्यश्वैत्यविवादे विवादे दास्यपणे काद्रवेयैः स्वमातुर्विजयाय गृहीतबालाकारैरुचैःश्रवसः पुच्छाच्छादनं चक्रे इति कथा पुराणादनुसंधेया । उपमा
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
कृ के वि म्ब नै र्वि हा यो
वि यं त्क्ष मि च्छु भि श्छ ले
मृ ता ग्र भु वः पु रे पु च्छं
वा र्तु वा रि का द्र वे यैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.