पृथुदर्विभृतस्ततः फणीन्द्रा
विषमाशीभिरनारतं वमन्तः ।
अभवन्युगपद्विलोलजिह्वा-
युगलीढोभयसृक्कभागमाविः ॥

मल्लिनाथः पृथ्विति ॥ ततो भुजगास्वप्रयोगानन्तरं पृथुदर्विभृतः । महाफणाधारिण इत्यर्थः । अत एव `दर्वीकरो दीर्घपृष्ठ` इत्यत्र दुर्वीरूपः फण एव करो हस्तो यस्य प्रहारादाविति व्याख्यातम् । आशीभिर्दष्ट्राभिः । `आशी उरगदंष्ट्रायाम्` इति वैजयन्ती । अनारतमश्रान्तं विषं वमन्त उद्दिरन्तः फणीन्द्रा महासर्पाः विलोलेश्चञ्चलैर्जिह्वायुगैर्लीढावास्वादितावुभौ सृक्कभागावोष्ठप्रान्तदेशौ यस्मिन्कर्मणि तत्तथा । `प्रान्तावोष्टस्य सक्कणी` इत्यमरः । आविरभवन् । अत्र `उभादुदात्तो नित्यम्` (अष्टाध्यायी ५.२.४४ ) इति नित्यग्रहणसामर्थ्यावृत्तिविषये उभशब्दस्य स्थानेऽप्युभयशब्दस्यैव प्रयोगः उभयपुत्र इत्यादिप्रयोगसिद्धेरिति कव्युक्तमस्माभिः प्रकटितं बहुधा संजीविन्यां घण्टापथे सर्वंकषायां च तत्र तत्र । स्वभावोक्तिरलंकारः
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
पृ थु र्वि भृ स्त तः णी न्द्रा
वि मा शी भि ना तं न्तः
न्यु द्वि लो जि ह्वा
यु ली ढो सृ क्क भा मा विः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.