Loading data... On slow networks this could take a few minutes.
100%

व्यवहार इवानृताभियोगं
तिमिरं निर्जितवत्यथप्रकाशे ।
रिपुरुल्बणभीमभोगभाजां
भुजगानां जननीं जजाप विद्याम् ॥

मल्लिनाथः व्यवहार इति ॥ व्यवहारे न्यायवादे अनृताभियोगं मिथ्याभिशंसनमिव प्रकाशे कौस्तुभतेजसि तिमिरं प्रस्वापनान्धकारं निर्जितवति निरस्तवति सति अथैतन्निरसनानन्तरं रिपुश्चैद्य उल्बणान्महतो भीमांश्च भोगान् फणान्, कायांश्च भजन्तीति तद्भाजः । `भोगः सुखे रुयादिभृतावहेश्च फणकाययोः` इत्यमरः । भुजगानां जननीमुत्पादिकां विद्यां मनं जजाप जपति स्म । भुजगास्त्रमाजहारेत्यर्थः । उल्बणेत्यत्र क्वचित् `उत्फण-` इति पाठः । उपमालंकारः
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
व्य हा वा नृ ता भि यो गं
ति मि रं नि र्जि त्य प्र का शे
रि पु रु ल्ब भी भो भा जां
भु गा नां नीं जा वि द्याम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.