Loading data... On slow networks this could take a few minutes.
100%

घनसंतमसैर्जवेन भूयो
यदुयोधैर्युधि रेधिरे द्विषन्तः ।
ननु वारिधरोपरोधमुक्तः
सुतरामुत्तपते पतिः प्रभाणाम् ॥

मल्लिनाथः घनेति ॥घनं सान्द्रं संतमसमन्धकारो येषु । `अवसमन्धेभ्यस्तमसः`&#३२; शिशुपालवधे. (५।२७९) इति समासान्तोऽच् प्रत्ययः । `गत-` इति पाठे गतं संतमसं येषां तैः यदुयोधैर्यादवभटैर्भूयः पुनरपि जवेन युधि द्विषन्तो रेधिरे जिहिंसिरे । हता इत्यर्थः । राध्यतेः कर्मणि लिट् । `राधो हिंसायाम्` इत्येत्वाभ्यासलोपौ । तथा हि—वारिधरोपरोधान्मेघापवरणान्मुक्तः प्रभाणां द्युतीनां पतिरकः सुतरामुत्तपत एव ननु प्रकाशत एव खलु । `उद्विभ्यां तपः` (१॥३।२७) इत्यात्मनेपदम् । अत्र यदुयोधानां द्युतिपतेश्च वाक्यभेदेन प्रतिबिम्बकरणादृष्टान्तालंकारः । न चोपमानोपमेययोर्भिन्नवचनत्वदोषः । लोके चन्द्रार्कादीनामुपमानानामबहुत्वेऽपि चन्द्रानना इतिवत्प्रत्येकमौपम्यात्
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
सं सै र्ज वे भू यो
दु यो धै र्यु धि रे धि रे द्वि न्तः
नु वा रि रो रो मु क्तः
सु रा मु त्त ते तिः प्र भा णाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.