Loading data... On slow networks this could take a few minutes.
100%

प्रकृतिं प्रतिपादुकैश्च पादै-
श्चकॢषे भानुमतः पुनः प्रसर्तुम् ।
तमसोऽभिभवादपास्य मूर्च्छा-
मुपजीवत्सहसैव जीवलोकः ॥

मल्लिनाथः प्रकृतिमिति ॥ प्रकृतिं स्वभावं प्रतिपादुकैः प्रतिपद्यमानैः । `लषपतपद-` (अष्टाध्यायी ३.२.१५४ ) इत्यादिना उकन्प्रत्ययः । `न लोका-` (अष्टाध्यायी २.३.६९ ) इत्यादिना षष्ठीप्रतिषेधः । भानुमतोंऽशुमतः पादै रश्मिभिश्च पुनर्भूयः प्रसर्तुं चक्लुपे शेके । `क्लपू सामर्थे` भावे लिट् `कृपो रो लः` (अष्टाध्यायी ८.२.१८ ) इति ऋकारस्थस्यापि रेफस्य लकारः । जीवलोकः प्राणिवर्गश्च तमसोऽन्धकारस्याभिभवात् । अभिभूतत्वादित्यर्थः । `कर्तृकर्मणोः कृति` (अष्टाध्यायी २.३.६५ ) इति कर्मणि षष्ठी । सहसैव मूर्च्छामपास्य उदजीवदुदश्वसीत् । अत्रीजीवनस्यार्ककरप्रसारहेतुकत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम्
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
प्र कृ तिं प्र ति पा दु कै श्च पा दै
श्च कॢ षे भा नु तः पु नः प्र र्तुम्
सो ऽभि वा पा स्य मू र्च्छा
मु जी त्स सै जी लो कः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.