महतः प्रणतेष्विव प्रसादः
स मणेरंशुचयः ककुंमुखेषु ।
व्यकसद्विकसद्विलोचनेभ्यो
दददालोकमनाविलं बलेभ्यः ॥

मल्लिनाथः महत इति ॥ स पूर्वोक्तो मणेः कौस्तुभस्यांशुचयः विकसन्ति उन्मीलन्ति विलोचनानि येषां तेभ्यो बलेभ्योऽनाविलं प्रसन्नमालोकं दर्शनं, तत्त्वज्ञानं च ददत्प्रतियच्छन् । महतो महात्मनः प्रसादोऽनुग्रहः प्रणतेषु भक्तेष्विव ककुभ्मुखेषु ककुभामग्रेषु व्यकसदमूर्च्छत् । पूर्णोपमा
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
तः प्र ते ष्वि प्र सा दः
णे रं शु यः कुं मु खे षु
व्य द्वि द्वि लो ने भ्यो
दा लो ना वि लं ले भ्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.