Loading data... On slow networks this could take a few minutes.
100%

श्लथतां व्रजतस्तथा परेषामगद्धारणाशक्तिमुज्झतः स्वाम् । सुगृहीतमपि प्रमदभाजां मनसः शास्त्रमिवामस्त्रमग्रपाणेः ॥

मल्लिनाथः श्लथतामिति ॥ तथेति पूर्वोक्तधनुराश्रयणसमुच्चये यथा तेषां धनुराश्रयणं तथान्येषां धनुर्गलनं चाभूदित्यर्थः । श्लथतां प्रयत्नशैथिल्यं व्रजतः भजतः स्वां निजां धारणशक्तिं वाहनसामर्थ्य उज्झतः त्यजतः परेषां राज्ञाम् । `अग्रं चासौ पाणिश्चेति` समानाधिकरणसमासः । हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदादिति वामनवचनात् । तस्मादग्रपाणेः सुगृहीतं सुष्ठु धृतमपि अन्यत्र स्वभ्यस्तमपि प्रमादभाजां गुणनिकाद्यवधानरहितानां मनसश्चित्तात् शास्त्रं विद्येव अस्त्रमगलदभ्रश्यत् । निद्रापारवश्यादित्यर्थः । इवेन सह समासात्समासगता श्रौती पूर्णोपमा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.