Loading data... On slow networks this could take a few minutes.
100%

उचितस्वपनोऽपि नीरराशौ
स्वबलाम्भोनिधिमध्यगस्तदीनीम् ।
भुवनत्रयकार्यजागरूकः
स परं तत्र परः पुमानजागः ॥

मल्लिनाथः उचितेति ॥ नीरराशौ समुद्रे उचितस्वपनोऽपि परिचितनिद्रोऽपि तदानीं सर्वनिद्रावसरे स्वबलाम्भोनिधिमध्यगः स्वसेनासागरमध्यगतः । `बलपाथोनिधि` इत्यपि` पाठः । भुवनत्रयकार्ये त्रैलोक्यरक्षाविधौ जागरूकः प्रबुद्धः । `जागरूकः` (अष्टाध्यायी ३.२.१६५ ) इत्यूकप्रत्ययः । परः पुमान्परमपुरुषः परं केवलं हरिरेवेत्यर्थः ।&#३२; विंशः सर्गः। ५०९ `परमव्ययमिच्छन्ति केवल` इति विश्वः । तत्र निद्राणलोके अजागः जागर्ति स्म । सर्वान्धकारहारिणो नित्यप्रकाशचिदात्मनः तत्रापि कार्यग्रस्तस्य कुतो निद्रेति भावः । जागर्तेलुङि तिप् । अदादित्वाच्छपो लुकि सार्वधातुकगुणे रपरे `हल्ड्याप्-` (६|१|६८) इति तिलोपे च रेफस्य विसर्जनीयः । अत्र समुद्रनिद्रालोस्तत्रैव जागरे विरोधपरिहारमुखेन कार्यजागरूकत्वपरमपुरुषत्वयोर्विशेषणगत्या तात्त्विकजागरणहेतुकत्वाद्विरोधाभाससंकीर्ण काव्यलिङ्गम्
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
चि स्व नो ऽपि नी रा शौ
स्व ला म्भो नि धि ध्य स्त दी नीम्
भु त्र का र्य जा रू कः
रं त्र रः पु मा जा गः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.