सलिलार्द्रवराहदेहनीलो विदधद्भास्करमर्थशून्यसंज्ञम् । प्रचलायतलोचनारविन्दं विदधे तद्बलमन्धकारः ॥

मल्लिनाथः &#३२; ५०८ शिशुपालवधे सलिलेति ॥ सलिलेनार्दो यो वराहदेहस्तद्वन्नीलः भासं प्रकाशं करोतीति भास्करः । `दिवाविभा-` (अष्टाध्यायी ३.२.२१ ) इत्यादिना टप्रत्ययः । तमर्थशून्या भास्करत्वरूपप्रवृत्तिनिमित्तशून्या संज्ञा भास्कराख्या यस्य तं विदधत् । सौरालोकमभिभवन्नित्यर्थः । अन्धं करोतीत्यन्धकारः स्वापनास्त्रप्रभवतमः । कर्मण्यण् । प्रचलानि निद्रापूर्णितानि आयतलोचनान्येवारविन्दानि यस्मिन्कर्मणि तत्तथा सूर्यतिरोधानेऽरविन्दमुकुलीभावस्यावश्यंभावादिति भावः । तद्वलं हरिसैन्यमन्धमपश्यं विदधे । निद्रां प्राविशदित्यर्थः । अत्रान्धमन्धेति सकृद्ध्यञ्जनयुग्मपौनरुक्त्याद्वृत्त्यनुप्रासभेदः । तस्य वराहदेहनीललोचनारविन्देत्युपमारूपकयोः संसृष्टिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.