विहिताद्भुतलोकसृष्टिमाये
जममिच्छन्किल मायया मुरारौ ।
भुवनक्षयकालयोगनिद्रे
नृपतिः स्वापनमस्त्रमाजहार ॥

मल्लिनाथः विहितेति ॥ नृपतिश्चैद्यो विहिता अद्भुता लोकसृष्टिरेव माया यस्मिंस्तस्मिन् भुवनक्षयकाले प्रलयकाले । न विदानीमिति भावः । उचिता योगनिद्रा यस्य मायया जयमिच्छन् किल । न तु जेष्यतीति भावः । स्वापयतीति स्वापनमस्त्रमाजहार । प्रयुक्तवानित्यर्थः । अनादिमायाधारे सकलभुवनसृष्टिसं. हारमहानाटकसूत्रधारे सर्वाद्भुतनिधाने सकलकलुपकषणपटुतराभिधाने पुराणैन्द्रजालिके भगवति हरावपि मायया जिगीश्हेत्यहो महानस्य व्यामोह इति भावः । अत्र हरिविशेषणैस्तस्य दुर्जयत्वसिद्धेः काव्यलिङ्गम्
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
वि हि ता द्भु लो सृ ष्टि मा ये
मि च्छ न्कि मा या मु रा रौ
भु क्ष का यो नि द्रे
नृ तिः स्वा स्त्र मा हा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.