Loading data... On slow networks this could take a few minutes.
100%

शतशः परुषाः पुरो विशङ्कं
शिशुपालेन शिलीमुखाः प्रयुक्ताः ।
परमर्मभिदोऽपि दानवारे-
रपराधा इव न व्यथां वितेनुः ॥

मल्लिनाथः शतश इति ॥ शिशुपालेन पुरोऽग्रे विशकं निःशकं शतशः प्रयुक्ताः क्षिप्ताः, उच्चारिताश्च परुषा निष्ठुराः परमर्मभिदोऽपि शिलीमुखाः शराः । शतशः अपराधाः पञ्चदशसर्गोक्ताः अभिशापा इव दानवारेहरेर्व्यथां दुःखं न वितेनुः । खलापकारा महतामकिंचित्करा इति भावः । समासगतोपमा
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
शः रु षाः पु रो वि ङ्कं
शि शु पा ले शि ली मु खाः प्र यु क्ताः
र्म भि दो ऽपि दा वा रे
रा धा व्य थां वि ते नुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.