Loading data... On slow networks this could take a few minutes.
100%

प्रमुखेऽभिहताश्च पत्रवाहाः
प्रसभं माधवमुक्तवत्सदन्तैः ।
परिपूर्णतरं भुवो गतायाः
परतः कातरवत्प्रतीपमीयुः ॥

मल्लिनाथः प्रमुख इति ॥ पत्राणि वहन्तीति पत्रवाहाः पत्रिणश्चैद्यशराः । `कर्मण्यण् (अष्टाध्यायी ३.२.१ ) । माधवमुक्तवत्सदन्तैः शौरिक्षिप्तशरैः प्रसभं बलाव्यमुखे शल्याने वदने चाभिहताः खण्डिताः सन्तः अत एव कातरैः त्रस्तैस्तुल्यं कातरवत् । तुल्यार्थे वतिप्रत्ययः । परिपूर्णतरं गतायाः । यावद्गन्तव्यं गताया इत्यर्थः । भुवोऽन्तरालभूमेः परतः प्रतीपं प्रतिकूलमीयुः प्रापुः प्रत्यागताश्च । माधवान्तिकात्परावृत्य जग्मुरित्यर्थः । चकारः पूर्वश्लोकोत्तपतनसमुच्चयार्थः । केचित्खण्डितास्तत्रैव पेतुः । केचिन्मुखेषु प्रतिहताः । प्रतिनिवृत्ता इत्यर्थः । कातरवदिति तद्धितगता श्रौती पूर्णोपमा
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
प्र मु खे ऽभि ता श्च त्र वा हाः
प्र भं मा मु क्त त्स न्तैः
रि पू र्ण रं भु वो ता याः
तः का त्प्र ती मी युः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.