इतरेतरत्सन्निकर्षजन्मा गलसंघट्टविकीर्णविस्फुलिङ्गः । पटलानि लिहन्वलाहकानामपरेषु क्षणमज्ज्वलत्कृशानुः ॥
इतरेतरत्सन्निकर्षजन्मा गलसंघट्टविकीर्णविस्फुलिङ्गः । पटलानि लिहन्वलाहकानामपरेषु क्षणमज्ज्वलत्कृशानुः ॥
मल्लिनाथः
इतरेतरेति ॥ इतरेतरेसंनिकर्षजन्मा शराणां मिथःसंश्लेषोत्थः । जन्मोत्तरपदत्वायधिकरणोऽपि बहुंब्रीहिरिष्यते । फलसंघटनेन शल्यसंघटनेन विकीर्णा विस्फुलिङ्गा यस्य सः कृशानुरग्निर्बलाहकानाम् । वारि वहन्तीति बलाहकाः । पृषोदरादित्वात्साधुः । पटलानि लिहन्नास्वादयन् अपरेषु शत्रुषु `समरेषु` इति पाठे समरेषु युद्धेषु क्षणमज्वलददीप्यत । अत्र शत्रुबलाहकानामग्निदाहाखादासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.