दयितैरिव खण्डिता मुरारे-
र्विशिखैः संमुखमुज्ज्वलाङ्गलेखैः ।
लघिमानमुपेयुषी पृथिव्यां
विफला शत्रुशरावलिः पपात ॥

मल्लिनाथः दयितैरिति ॥ उज्ज्वलाः स्फुटा अङ्गेषु लेखाचित्रलेखा नखरेखाश्च येषां तैः मुरारेर्विशिखैर्दयितैः प्रियैरिव संमुखं समक्षमेव खण्डिता नुन्ना, अन्यत्रावमानिता अत एव विफला विशल्या अलब्धकामा च । अत एव लघिमानमगुरुत्वं अल्पतां चोपेयुषी शत्रुशरावलिः पृथिव्यां पपात । अत्र प्रकृतशरावलिविशेपणसाम्यादप्रकृतखण्डितानायिकाप्रतीतेः समासोक्तिः । दयितैरिवेत्युपमाखण्डिताविशेषणान्तःपातित्वादङ्गमेव । अत एव तच्च विशेषणसाम्यं श्लिष्टतया साधारण्येनौपम्यगर्भत्वेन च भवतीत्युक्तं सर्वस्वकारैः `ज्ञातेऽन्यासङ्गविकृते खण्डिताकषायिता` इति । साप्येवं पृथिव्यां पततीति भावः
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
यि तै रि ण्डि ता मु रा रे
र्वि शि खैः सं मु मु ज्ज्व ला ङ्ग ले खैः
घि मा मु पे यु षी पृ थि व्यां
वि ला त्रु रा लिः पा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.