ध्वनतो नितरां रयेण गुर्व्यस्तडिदाकारचलद्गुणादसंख्याः । इषवो धनुषः सशब्दमाशु न्यपतन्नम्बुधरादिवाम्बुधराः ॥

मल्लिनाथः ध्वनत इति ॥ ध्वनतो गर्जतः तडित इवाकारो यस्य स तडिदाकारः चलनात्तेजोमयत्वाचाचिरप्रभाकारश्चलन् गुणो मौर्वी यस्य तस्मात् । `मौर्वी ज्या शिञ्जिनी गुणः` इत्यमरः । धनुषः शामत् गुर्यों महत्यः असंख्या अपरिमिता इषवोऽम्बुधरान्मेघात् अम्बुधारा इवाशु सशब्दं न्यपतन् । अत्रोपमानोपमेययोरेकलिङ्गतान्वयात् इषुशब्दो द्विलिङ्गोऽपि स्त्रीलिङ्ग एवं प्रयुक्त इति ज्ञापनाय गुर्व्य इति विशेषणम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.