Loading data... On slow networks this could take a few minutes.
100%

उरसा विततेन पातितांसः
स मयूराञ्चितमस्तकस्तदानीम् ।
क्षणमालिखितो नु सौष्ठवेन
स्थिरपूर्वापरमुष्टिराबभौ वा ॥

मल्लिनाथः उरसेति ॥ तदानीं धनुष्कर्षणसमये विततेन विस्तारितेनोरसा उपलक्षितः पातितांसो नमितस्कन्धः मयूरवदञ्चितं मनोहरं मस्तकं यस्य सः । उन्नमितमूर्धेत्यर्थः । स्थिरौ दृढौ पूर्वापरौ अग्रिमचरमौ मुष्टी गृहीतलस्तकमौर्वीकौ पाणी यस्य स हरिः । सुष्टु भावः सौष्ठवं तेन सौष्ठवेन स्थानकपाटवेन हेतुना क्षणमालिखितो नु लिखित इव आबभौ वा बभासे किम् । नुशब्दो वितर्कार्थे । `नु पृच्छायां वितर्के च` इत्यमरः । वाशब्दोऽपि तादृश इत्युत्प्रेक्षालंकारोऽयम्
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
सा वि ते पा ति तां सः
यू रा ञ्चि स्त स्त दा नीम्
क्ष मा लि खि तो नु सौ ष्ठ वे
स्थि पू र्वा मु ष्टि रा भौ वा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.