शिखरोन्नतनिष्ठुरांसपीठः
स्थगयन्नेकदिगन्तमायतान्तः ।
निरवर्णि सकृत्प्रसारितोऽस्य
क्षितिभर्तेव चमूभिरेकबाहुः ॥

मल्लिनाथः शिखरेति ॥ शिखरं शृङ्गमिवोन्नतं निष्ठुरं चांसपीठं यस्य स एकदिगन्तं एकदिग्भागं स्थगयन् आयताम्तो द्वाधिष्ठस्वरूपः । `अन्तोऽध्यवसिते मृत्यौ स्वरूपे निश्चयेऽन्तिके` इति वैजयन्ती । सकृपसारितः न तु पुनःपुनरिति स्थैर्योक्तिः । अस्य हरेरेकबाहुः । चापरोपितो वामबाहुरित्यर्थः । चमूभिः क्षितिभर्तेव भूधर इव निरवर्णि । साधु निरीक्षित इत्यर्थः । `निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्` इत्यमरः
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
शि रो न्न नि ष्ठु रां पी ठः
स्थ न्ने दि न्त मा ता न्तः
नि र्णि कृ त्प्र सा रि तो ऽस्य
क्षि ति र्ते मू भि रे बा हुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.