शितचक्रनिपातसंप्रतीक्ष्यं
वहतः स्कन्धगतं च तस्य मृत्युम् ।
अभिशौरि रथोऽथनोदिताश्वः
प्रययौ सारथिरूपया नियत्या ॥

मल्लिनाथः शितेति ॥ अथ आह्वानानन्तरं शितचक्रनिपातं शितसुदर्शनप्रहारं संप्रतीक्षत इति शितचक्रनिपातसंप्रतीक्षम् । ईक्षतेः कर्मण्यण् । स्कन्धगतं मृत्युं वहतः तस्य चैद्यस्य रथः सारथिरूपया नियत्या विधिनेति रूपकम् । `भाग्यं स्त्री नियतिर्विधिः` इत्यमरः । नोदिताश्वः प्रेरिताश्वः सन् अभिशौरि शौरिमभि । आभिमुख्येऽव्ययीभावः । `अव्ययादाप्सुपः` (अष्टाध्यायी २.४.८२ ) इति सुपो लुक् । प्रययौ प्रतस्थे
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
शि क्र नि पा सं प्र ती क्ष्यं
तः स्क न्ध तं स्य मृ त्युम्
भि शौ रि थो ऽथ नो दि ता श्वः
प्र यौ सा थि रू या नि त्या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.