मुखमुल्लसितत्रिरेखमुच्चै-
र्भिदुरभ्रूयुगभीषणं दधानः ।
समिताविति विक्रमानमृष्य-
न्गतभीराह्वतचेदिराण्मुरारिम् ॥
मुखमुल्लसितत्रिरेखमुच्चै-
र्भिदुरभ्रूयुगभीषणं दधानः ।
समिताविति विक्रमानमृष्य-
न्गतभीराह्वतचेदिराण्मुरारिम् ॥
र्भिदुरभ्रूयुगभीषणं दधानः ।
समिताविति विक्रमानमृष्य-
न्गतभीराह्वतचेदिराण्मुरारिम् ॥
मल्लिनाथः
मुखमिति ॥ इतीत्थं समितावाजौ । `समित्याजिसमिद्युधः` इत्यमरः । विक्रमान्मुरारेः पराक्रमान् अमृष्यन्नसहमानः अत एव तिस्रो रेखास्त्रिरेखाः । `दिक्संख्ये संज्ञायाम्` (२।१५०) इति समासः । ता उल्लसिताः क्रोधादुद्भूता यस्मिंस्तदुल्लसितत्रिलेखम् । क्वचित् `त्रिलोकम्` इत्यपि पाठः । तथा भिदुरेण ग्रन्थिलेन भूयुगेन भीषणं भयंकरं उच्चैरुन्नतं मुखं दधानः चेदिषु राजते &#३२; चेदिराट् । संपदादिभ्यः क्विप् । यद्वा चेदीनां राट् चेदिराट् । `अन्येभ्योऽपि दृश्यते` (अष्टाध्यायी ३.२.१७८ ) इति क्विप् । `राजा राट् पार्थिवः क्ष्माभृत्` इत्यमरः । गतभीर्निर्भीकः सन् मुरारि हरिं आह्वत । अयमहं क्वासि मामभ्युपैहि इति स्पर्धया अमर्षादाकारयामासेत्यर्थः । विनाशकाले विपरीतबुद्धेर्दुर्वारत्वादिति भावः । `स्पर्धायामाङः` (१॥३॥३१) इति ह्वयतेर्लुङि `आत्मनेपदेप्वन्यतरस्याम्` (अष्टाध्यायी ३.१.५४ ) इति च्लेरङादेशः । अत्रामर्षस्य विशेषणगत्या आह्वानहेतुत्वात्काव्यलिङ्गम् । सर्गेऽस्मिन्नौपच्छन्दसिकं वृत्तम् । वैतालीये गुर्वाधिक्यात् । तदुक्तं `वैतालीयं द्विःस्वरा अयुक्पादे युग्वसवोऽन्ते गः`, `गौपच्छन्दसकम्` इति
छन्दः
औपच्छन्दसिक
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
|---|---|---|---|---|---|---|---|---|---|---|---|
| मु | ख | मु | ल्ल | सि | त | त्रि | रे | ख | मु | च्चै | |
| र्भि | दु | र | भ्रू | यु | ग | भी | ष | णं | द | धा | नः |
| स | मि | ता | वि | ति | वि | क्र | मा | न | मृ | ष्य | |
| न्ग | त | भी | रा | ह्व | त | चे | दि | रा | ण्मु | रा | रिम् |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.