विनिवारितभानुतापमेकं
सकलस्यापि मुरद्विषो बलस्य ।
शरजालमयं समं समन्ता-
दुरु सद्मेव नराधिपेन तेने ॥

मल्लिनाथः विनिवारितेति ॥ नराधिपेन सकलस्यापि मुरद्विषो हरेबलस्य सैन्यस्य विनिवारितो भानुतापो येन तदेकमद्वितीयं शरजालमयं बाणवृन्दात्मकं उरु&#३२; शिशुपालवधे महत्सद्मेव सदनमिवेत्युत्प्रेक्षा । समं युगपत्समन्तात्तेने । कृतमित्यर्थः । तनोते: कर्मणि लिट्
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
वि नि वा रि भा नु ता मे कं
स्या पि मु द्वि षो स्य
जा यं मं न्ता
दु रु द्मे रा धि पे ते ने
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.