अमनोरमतां यती जनस्य क्षणमालोकपथान्नभः सदां वा । रुरुधे पिहिताहिमद्युतिर्धीर्विशिखैरन्तरिता च्युता धरित्रत्री ॥
अमनोरमतां यती जनस्य क्षणमालोकपथान्नभः सदां वा । रुरुधे पिहिताहिमद्युतिर्धीर्विशिखैरन्तरिता च्युता धरित्रत्री ॥
मल्लिनाथः
अमन इति ॥ विशिखैश्चैद्यबाणैः कर्तृभिः पिहिताहिमद्युतिस्तिरोहितार्का । अत एवामनोरमतां यती प्राप्नुवती । इणः शतरि `उगितश्च` (४।१६) इति ङीप् । द्यौराकाशं जनस्य भौमलोकस्य आलोकपथादृष्टिमार्गात् क्षणं रुरुधे रुद्धा । रुधेः कर्मणि लिद । अत्र पथो रोधापायत्वात् `ध्रुवमपाये-` (अष्टाध्यायी १.४.२४ ) इति अपादानत्वे पञ्चमी । तथान्तरिता च्युता तिरोहिता नष्टा अत एवामनोरमतां यती धरित्री नभःसदां वा आलोकपथाद्गुरुधे । वाकारो जनसमुच्चयार्थः । अत्र द्युधरित्र्योः प्रकृतयोरेव रोधाख्यतुल्यधर्मयोगात्तुल्ययोगिताभेदौ ताभ्यामेव जनस्य नभःसदां यथासंख्यान्वयाद्यथासंख्यालंकारः सापेक्षतया संकीर्यते
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.