मल्लिनाथः
इतीति ॥ इतीत्थं चेदिमहीभृता चैद्येन तदानीं तत्काले दनुसूनुसूदनस्य दानवान्तकस्य हरेस्तदनीकं बलम् । `वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्` इत्यमरः । वयसां चक्रं पक्षिसङ्घ इव अक्रियाकं निश्चेष्टं यथा तथा विपाटयन्तीति विपाटाः शराः । पचाद्यच् । तैरेव पारेण परितः सर्वतः अरोधि रुद्धम् । रुधेः कर्मणि लुङ् । उपमा
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.