गवलासितकान्ति तस्य मध्यस्थितघोरायतबाहुदण्डनासम् । ददृशे कुपितान्तकोन्न्मद्भ्रूयुगभीमाकृति कार्मुकं जनेन ॥

मल्लिनाथः गवलेति ॥ `गवलं माहिषं शृङ्गम्` इत्यमरः । तद्वदसितकान्ति कृष्णवर्णं&#३२; विंशः सर्गः। मध्ये स्थिता घोरा भीमा, आयता च बाहुदण्डो नासा नासिकेव यस्मिंस्तत्तथोक्तम् । कुपितत्यान्तकस्य मृत्योरुन्नतं यद्भूयुगं तद्वनीमा आकृतिर्यस्य तत्तस्य चैद्यस्य कार्मुकं जनेन ददृशे दृष्टम् । सभयविस्मयमिति भावः । उपमालंकारः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.