अनुसन्ततिपातिनः पटुत्वं
दधतः शुद्धिभृतो गृहीतपक्षाः ।
वदनादिव वादिनोऽथ शब्दाः
क्षितिभर्तुर्धनुषः शराः प्रसस्रुः ॥

मल्लिनाथः अन्विति ॥ अथाकर्षणानन्तरं क्षितिभर्तुश्चैद्यस्य धनुषः सकाशात् अनुसंतत्या पतन्तीत्यनुसंततिपातिनोऽविच्छेदवर्तिनः पटुत्वं लक्ष्यभेदपाटवं, वाचकत्वशक्तिं च दधतः शुद्धिभृतः लोहशुद्धिभृतः निर्विषा वा, अन्यत्र साधव इत्यर्थः । गृहीतपक्षाः स्वीकृतकङ्कादिपत्राः, अन्यत्र गृहीतनित्यत्वादिसाध्यार्थाः । `पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु` इति वैजयन्ती । शराः वादिनः कथकस्य वदनाच्छब्दाः प्रतिज्ञाहेत्वादय इव प्रसस्रुर्निर्जग्मुः श्लिष्टविशेषणेयसुपमेति केचित् । श्लेष एव प्रकृताप्रकृतविषय इत्यन्ये
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
नु न्त ति पा ति नः टु त्वं
तः शु द्धि भृ तो गृ ही क्षाः
ना दि वा दि नो ऽथ ब्दाः
क्षि ति र्तु र्ध नु षः राः प्र स्रुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.