तडिदुज्ज्वलजातरूपपुङ्खैः
खमयःश्याममुखैरभिध्वनद्भिः ।
जलदैरिव रंहसा पतद्भिः
पिदधे संहतिशालिभिः शरौघैः ॥

मल्लिनाथः तडिदिति ॥ तडिद्वदुज्जवला दीप्ता जातरूपस्य हेम्नः पुङ्खाः; कर्तर्यो येषां तैः । अयोवत् श्याममुखैः श्यामाग्रैरभिध्वनद्भिर्ध्वनिभिः स्वनत्पक्षैर्गर्जद्भिश्च रंहसा वेगेन पतद्भिर्धावद्भिः संहतिशालिभिः सङ्घवाहिभिः शरौघैर्जलदैरिव खमाकाशं पिदधे पिहितम् । कर्मणि लिट् । `वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः` इत्यपेरकारलोपः । उपमालंकारः
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
डि दु ज्ज्व जा रू पु ङ्खैः
यः श्या मु खै भि ध्व द्भिः
दै रि रं सा द्भिः
पि धे सं ति शा लि भिः रौ घैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.