Loading data... On slow networks this could take a few minutes.
100%

उपजापः कृतस्तेन तानाकोपवतस्त्वयि ।
आशु दीपयिताल्पोऽपि साग्नीनेधानिवानिलः ॥

मल्लिनाथः उपेति ॥ तेन चैद्येन कृतोऽल्पोप्युपजापो भेदः । `भेदोपजापौ` इत्यमरः । त्वय्याकोपवतस्तान् बाणादीन् अनिलः साग्नीनेधानिन्धनानीव। `काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम्` इत्यमरः । आशु दीपयिता सद्यः प्रज्वलयिष्यति । दीपेर्ण्य॑न्ताल्लुट् । अन्तर्वैराः संहिताः आपदि सति रन्ध्रे सद्यो विश्लिष्यन्तीति भावः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
जा पः कृ स्ते
ता ना को स्त्व यि
शु दी यि ता ल्पो ऽपि
सा ग्नी ने धा नि वा नि लः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.