बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ।
संभूयाम्भोधिमभ्येति महानद्या नगापगा ॥

मल्लिनाथः बृहदिति ॥ बृहत्सहायो महासहायवान् क्षोदीयान् क्षुद्रतरोऽपि । `स्थूलदूर-` (अष्टाध्यायी ६.४.९५६ ) इत्यादिना यणादिपरलोपः पूर्वगुणश्च । कार्यस्यान्तं पारं गच्छति । तथा हि—अपां समूह आपम् । `तस्य समूहः` (अष्टाध्यायी ४.२.३७ ) इत्यण् । तेन गच्छतीत्यापगा नगापगा गिरिनदी महानद्या गङ्गादिकया संभूय मिलित्वाऽम्भोधिमभ्येति । क्षुद्रोऽप्येवं तादृक् । महावीरश्चैद्यस्तु किमु वक्तव्य इत्यपिशब्दार्थः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
बृ त्स हा यः का र्या न्तं
क्षो दी या पि च्छ ति
सं भू या म्भो धि भ्ये ति
हा द्या गा गा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.