मल्लिनाथः
ये चेति ॥ ये चोन्ये कालयवनशाल्वरुक्मिद्रुमादयो राजानस्तमःस्वभावास्तमोगुणात्मका अत एव तेऽपि प्रदोषं प्रकृष्टदोषम् । `प्रदोषो दुष्टरात्र्यंशौ` इति वैजयन्ती । तामसमेवैनं चैद्यमनुयायिनोऽनुयास्यन्ति । सादृश्यादिति भावः । `भविष्यति गम्यादयः` (अष्टाध्यायी ३.३.३ ) इति णिनिर्भविष्यदर्थे । `अकेनोर्भविष्यदाधमर्ण्ययोः` (अष्टाध्यायी २.३.७० ) इति षष्ठीप्रतिषेधाद्वितीया । यथा ध्वान्तं रजनीमुखमनुयाति तद्वदिति वस्तुनाऽलंकारध्वनिः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.