संपादितफलस्तेन सपक्षः परभेदनः ।
कार्मुकेणेवगुणिना बाणः संधानमेष्यति ॥

मल्लिनाथः &#३२; संपादितेति ॥ संपादितं फलं लाभो, बाणाग्रं च यस्य सः । `फलं लाभशराग्रयोः` इति शाश्वतः । सपक्षः ससुहृत् , कङ्कादिपत्रयुतश्च परेषां भेदकः शत्रुविदारणः बाणो बाणासुरः, शरश्च । गुणिना शौर्यादिगुणवता, अधिज्येन च तेन चैद्येन कर्मणे प्रभवतीति कार्मुकम् । `कर्मण उकञ्` (अष्टाध्यायी ५.१.१०३ ) । तेनैव संधानं संधिमेष्यति । अतो नैकाकीति भावः । अत्राप्युपमा श्लेषो वा मतभेदात्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सं पा दि स्ते
क्षः भे नः
का र्मु के णे गु णि ना
बा णः सं धा मे ष्य ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.