Loading data... On slow networks this could take a few minutes.
100%

मा वेदि यदसावेको जेतव्यश्चेदिराडिति ।
राजयक्ष्मेव रोगाणां समूह स महीभृतां ॥

मल्लिनाथः मा वेदीति ॥ असौ चेदिराट् एकः एकाकी अतो जेतव्यः सुजय इति मा वेदि मा ज्ञायि । वेत्तेः कर्मणि माङि लुङ् । यद्यस्मात् स चेदिराट् राज्ञश्चन्द्रस्य यक्ष्मा, राजा चासौ यक्ष्मेति वा राजयक्ष्मा क्षयरोगो रोगाणामिव महीभृतां समूहः समष्टिरूपः । तथाह वाग्भटः`अनेकरोगानुगतो बहुरोगपुरोगमः । राजयक्ष्मा क्षयः शोषो रोगराडिति च स्मृतः ॥ नक्षत्राणां द्विजानां च राज्ञोऽभूद्यदयं पुरा । यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः ॥` (नि० स्था० अ० ५) इति । अतो दुर्जेय इति भावः । एतेन `चिरस्य मित्रव्यसनी सुदमो दमघोषजः` (२/६०) इति निरस्तम्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मा वे दि सा वे को
जे व्य श्चे दि रा डि ति
रा क्ष्मे रो गा णां
मू ही भृ तां
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.