Loading data... On slow networks this could take a few minutes.
100%

तदीशितारं चेदिनां भवांस्तमवमंस्त मा ।
निहन्त्यरीनेकपदे य उदात्तः स्वरानिव ॥

मल्लिनाथः तदिति ॥ तत्तस्मादशक्यार्थस्याकार्यत्वात्तं चेदीनामीशितारं शिशुपालं भवान् मावमंस्त नावमन्यस्व । मन्यतेर्माङि लुङ् । अनुदात्तत्वान्नेडागमः। कुतः । यश्चैद्यः उदात्तः स्वराननुदात्तानिवारीनेकपदे एकस्मिन्पदन्यासे, सुप्तिङन्तलक्षणे च निहन्ति हिनस्ति, नीचैः करोति च । अतिशूरत्वात् । `अनुदात्तं पदमेकवर्जम्` (अष्टाध्यायी ६.१.१५८ ) इति परिभाषाबलाच्चेति भावः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दी शि ता रं चे दि नां
वां स्त मं स्त मा
नि न्त्य री ने दे
दा त्तः स्व रा नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.