स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनां ।
अयथाबलमारम्भो निदानं क्षयसंपदः ॥

मल्लिनाथः स्थाने इति ॥ किंच स्थाने शक्यविषये शमवतां क्षमावतामङ्गिनां सप्ताङ्गिनां राज्ञां, शरीरिणां च शक्त्या प्रभावाद्यनुसारेण, बलेन च व्यायामे व्यापारे । पाहुण्यप्रयोगे गमनादौ च सतीत्यर्थः । वृद्धिपचयः । राज्यस्य, शरीरस्य चेति भावः । विपक्षे बाधकमाह-अयथाबलं शक्त्यतिक्रमेण । `यथा सादृश्ये` (२/१/७) इत्यव्ययीभावे नञ्समासः । आरम्भो व्यायामः । क्षयसंपदोऽत्यन्तहानेर्निदानमादिकारणम् । अङ्गानामिति भावः । तस्मादस्माकमकस्साच्चैद्यास्कन्दनमश्रेयस्करमिति भावः । अत्र विशेषस्यापि श्लिष्टत्वाच्छब्दशक्तिमूलो वस्तुना वस्तुध्वनिः । अतो द्वयानामङ्गिनामौपम्यं च गम्यत इति संक्षेपः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्था ने तां क्त्या
व्या या मे वृ द्धि ङ्गि नां
था मा म्भो
नि दा नं क्ष सं दः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.