मल्लिनाथः
षाङ्गुण्यमिति ॥ शक्तिं प्रभावादित्रयं, बलं चापेक्षत इति शक्त्यपेक्षः सन् । पचाद्यच् । `शक्तिर्बले प्रभावादौ` इति विश्वः । षड्गुणा एव षाड्गुण्यं संधिविग्रहादिषट्कम् । चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ्प्रत्ययः । तदेव रसायनमौषधविशेषमुपयुञ्जीत सेवेत । `रसायनं विहङ्गेऽपि जराव्याधिभिदौषधे` इति विश्वः । एवं सत्यस्य प्रयोक्तुरङ्गानि स्वाम्यादीनि । `स्वामी जनपदोऽमात्यः कोशो दुर्ग बलं सुहृत् । राज्यं सप्तप्रकृत्यङ्गं नीतिज्ञाः संप्रचक्षते ॥` इति । गात्राणि च पाठा०-१ विमृष्य`. २ `शक्त्यपेक्षं`. स्थास्तूनि स्थिराणि । कालान्तरक्षमाणीत्यर्थः । `ग्लाजिस्थश्च-` (अष्टाध्यायी ३.२.१३९ ) इति ग्स्नुः । बलवन्ति च परपीडाक्षमाणि च भवन्ति । श्लिष्टपरम्परितरूपकम्
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
|---|---|---|---|---|---|---|---|
| षा | ड्गु | ण्य | मु | प | यु | ञ्जी | त |
| श | क्त्य | पे | क्षो | र | सा | य | नं |
| भ | व | न्त्य | स्ये | व | म | ङ्गा | नि |
| स्था | स्नू | नि | ब | ल | व | न्ति | च |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.