स्थायिनोर्ऽथे प्रवर्तन्ते भावाः संचारिणो यथा ।
रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः ॥

मल्लिनाथः स्थायिन इति ॥ रस्यते स्वाद्यत इति रसः शृङ्गारादिः । रसतेः स्वादनार्थत्वाद्रस्यन्त इति ते रसा इति निर्वचनात् तस्य रसस्य रसीभवतः स्थायिभावस्य रत्यादेः । रतिर्हासश्च क्रोधश्च शोकोत्साहभयानि च । जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥` इत्युक्तत्वात् । एकस्यैवार्थे स्वादुभावरूपे प्रयोजने भूयांसः संचारिणो व्यभिचारिणो भावा निर्वेदादयः । विभावादीनामुपलक्षणमेतत् । यथा प्रवर्तन्ते । तदुक्तम्-`विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । आनीयमानः स्वादुत्वं स्थायिभावो रसः स्मृतः ॥` इति । तथा स्थायिनः स्थिरस्य । क्षान्त्या कालं प्रतीक्षमाणस्येत्यर्थः । एकस्यैव नेतुर्विजिगीषोर्नायकस्यार्थे प्रयोजने भूयांसो महीभृतो राजानः प्रवर्तन्ते । स्वयमेवास्य कार्यं साधयन्तीत्यर्थः । ततः क्षन्तव्यमिति भावः । केचित्तु भावपदस्यापि रसपरत्वमाश्रित्य यथा संचारिणः प्रसङ्गादागन्तुका अन्ये रसाः स्थायिनः स्थिरस्यैकस्य मुख्यस्यार्थे प्रवर्तन्ते, यथाऽस्मिन्नेव काव्ये वीरस्य शृङ्गारादय इति व्याचक्षते । उपमालंकारः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्था यि नो र्ऽथे प्र र्त न्ते
भा वाः सं चा रि णो था
स्यै स्य भू यां
स्त था ने तु र्म ही भृ तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.