मल्लिनाथः
नालम्बत इति ॥ विद्वानभिज्ञः दिष्टे मतिर्यस्येति दैष्टिकः । दैवप्रमाणक इत्यर्थः । `दैवं दिष्टं भागधेयम्` इत्यमरः । `अस्तिनास्तिदिष्टं मतिः` (४/४/६०) इति ठक् । तद्भावं दैष्टिकतामेव नालम्बते । सर्वथा यद्भविष्यस्य विनाशादिति भावः। तथा पौरुषे केवलपुरुषकारेऽपि । युवादित्वादण्प्रत्ययः। न निषीदति न तिष्ठति । दैवप्रातिकूल्ये तस्य वैफल्यादिति भावः । किंतु सत्कविः सत्कव२यिता शब्दार्थाविव, तयोः काव्यशरीरत्वादिति भावः । यथाह वामनः-`अदोषौ सगुणौ सालंकारौ शब्दार्थों काव्यम्` इति । द्वयं पौरुषं, दैवं चापेक्षते । अतः पौरुषमप्यावश्यकम् किंतु काले कर्तव्यमिति विशेषः। पौरुषादृष्टयोः परस्परसापेक्षत्वादिति भावः
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
|---|---|---|---|---|---|---|---|
| ना | ल | म्ब | ते | नै | ष्ठि | क | तां |
| न | नि | षी | द | ति | पौ | रु | षे |
| श | ब्दा | र्थौ | स | त्क | वि | रि | व |
| द्व | यं | वि | द्वा | न | पे | क्ष | ते |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.