मल्लिनाथः
तन्त्रेति ॥ तन्त्रावापौ स्वपरराष्ट्रचिन्तनम् । अन्यत्र तत्रावापं शास्त्रौषधप्रयोगं च वेत्ति यस्तेन तन्त्रावापविदा । `तत्रं स्वराष्ट्रचिन्तायामावापः परचिन्तने । शास्त्रौषधान्तमुख्येषु तन्त्रम्` इति वैजयन्ती । योगैः सामाधुपायैः, अन्यत्र देवताध्यानैश्च । `योगः संनहनोपायध्यानसंगतियुक्तिषु` इत्यमरः । मण्डलानि स्वपरराष्ट्राणि, माहेन्द्रादिदेवतायतनानि च अधितिष्ठताऽतिक्रमता नरेन्द्रेण राज्ञा, विषवैद्येन च । नरेन्द्रो वार्तिके राज्ञि विषवैद्ये च कथ्यते` इति विश्वः । शत्रवः फणीन्द्रा इव सुनिग्रहाः सुखेन निग्राह्याः । एवं च प्रकृताप्रकृतविषयः श्लेषः । उपमैवेति केचित्
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
|---|---|---|---|---|---|---|---|
| त | न्त्र | वा | प | वि | दा | यो | |
| गै | र्म | ण्ड | ला | न्य | धि | ष्ठि | ता |
| सु | नि | ग्र | हा | न | रे | न्द्रे | ण |
| फ | णी | न्द्रा | इ | व | श | त्र | वः |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.