Loading data... On slow networks this could take a few minutes.
100%

स्पृशन्ति शरवत्तीक्ष्णस्तोकमन्तर्विशन्ति च ।
बहुस्पृशापि स्थूलेन स्थीयते बहिरश्मवत् ॥

मल्लिनाथः स्पृशन्तीति ॥ तीक्ष्णा निशितप्रज्ञाः शरवच्छरेण तुल्यं स्तोकमल्पमेव स्पृशन्ति । अन्तः कार्यस्य चान्तरं विशन्ति । अल्पायासेन बहु कार्य साधयन्तीत्यर्थः । बहुस्पृशा व्यापिना स्थूलेन मन्देन, बृहता चाश्मनोपलेन तुल्यमश्मवत् । `तेन तुल्यं क्रिया चेद्वतिः` (अष्टाध्यायी ५.१.११५ ) । बहिरेव । कार्यस्याकार्यस्य चेति भावः । स्थीयते स्थितिः क्रियते । मूढो हि अल्पस्य हेतोर्बहु प्रयासं करोति । मूषकग्रहणाय शिखरिखननं परिहासास्पदं भवतीति भावः । तद्धितगतेयमुपमा
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्पृ न्ति त्ती क्ष्ण
स्तो न्त र्वि न्ति
हु स्पृ शा पि स्थू ले
स्थी ते हि श्म वत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.