Loading data... On slow networks this could take a few minutes.
100%

आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च ।
महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥

मल्लिनाथः आरभन्त इति ॥ किंचाज्ञा अल्पं तुच्छमेवारभन्ते प्रक्रमन्ते । काममत्यन्तं व्यग्राः, त्वरिताश्च भवन्ति । न च पारं गच्छन्तीति भावः । कृतधियः शिक्षितबुद्धयस्तु महारम्भा महोद्योगा भवन्ति । निराकुला अव्यग्राश्च तिष्ठन्ति १। पारं गच्छन्तीति भावः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्ते ऽल्प मे वा ज्ञाः
का मं व्य ग्रा न्ति
हा म्भाः कृ धि
स्ति ष्ठ न्ति नि रा कु लाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.