सोपधानां धियं धीराः स्थेयसीं खट्वयन्ति ये ।
तत्रानिशं निषम्ण्णास्ते जानते जातु न श्रमंम् ॥

मल्लिनाथः सोपधानामिति ॥ ये धीरा धीमन्तः सोपधानां सविशेषाम् । युक्तियुक्तामित्यर्थः । अन्यत्र सगेन्दुकाम् । सोपवर्हामित्यर्थः। `उपधानं विशेषे स्याद्गेन्दुके प्रणयेऽपि च` इति विश्वः । स्थेयसीं स्थिरतरामचपलां, द्रढीयसीं च । स्थिरशब्दादीयसुनि `प्रियस्थिर-` (६४।१५७ ) इत्यादिना स्थादेशः । धियं खट्वयन्ति खट्वां पर्यङ्कं कुर्वन्ति । आश्रयन्तीत्यर्थः । `शयनं मञ्चपर्यङ्कपल्यङ्काः खट्या समाः` इत्यमरः । `तत्करोति तदाचष्टे` (ग०) इति णिच् । ते धीरास्तत्र धीखट्वायामनिशमश्रान्तं निषण्णा विश्रान्ताः सन्तो जातु कदाचिदपि श्रमं खेदं न जानते न विदन्ति । श्रमः खेदोऽध्वरत्यादेः` इति लक्षणम् । धीपूर्वक एवोत्साहः सेव्यो न केवल इति सर्वथा धीराश्रयणीयेत्यर्थः। अत्र धिय आरोप्यमाणायाः प्रकृतश्रमापनोदरूपोपकारपर्यन्ततया परिणामालंकारः । `आरोप्यमाणस्य प्रकृतोपयोगित्वे परिमाणः` इति लक्षणात्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सो धा नां धि यं धी राः
स्थे सीं ट्व न्ति ये
त्रा नि शं नि म्ण्णा स्ते
जा ते जा तु श्र मंम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.