Loading data... On slow networks this could take a few minutes.
100%

पज्ञोत्साहवतः स्वामी यतेताधातुमात्मनि ।
तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसंपदः ॥

मल्लिनाथः प्रक्ज्ञेति ॥ अतोऽस्मात्कारणात् स्वमस्यास्तीति स्वामी प्रभुः । `स्वामिन्नैश्वर्ये (अष्टाध्यायी ५.२.१२६ ) इति निपातः । प्रज्ञोत्साहौ मन्त्रोत्साहशक्ती आत्मनि स्वस्मिन्नाधातुं संपादयितुं यतेत । स्वयमुभयशक्तिमान्भवेदित्यर्थः । कुतः । हि यस्मात्तौ प्रज्ञोत्साहौ उदेष्यन्त्या वर्त्स्य॑न्त्याः जिगीषोरात्मनः संपदः प्रभुशक्तेर्मूलं निदानम् । अत्रोत्साहग्रहणं दृष्टान्तार्थम्् । यथोत्साहस्तथा मन्त्रोऽपि ग्राह्यो, न तु केवलोत्साह इति बलभद्रापवादः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ज्ञो त्सा तः स्वा मी
ते ता धा तु मा त्म नि
तौ हि मू मु दे ष्य न्त्या
जि गी षो रा त्म सं दः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.