मल्लिनाथः
विशेषेति ॥ विशेषानवान्तरभेदान् वेत्तीति विशेषविद्वान् तस्य विशेषविदुषो विशेषज्ञस्य । गतिगम्यादिपाठाद्वितीयासमासः । तव पुरोऽग्रे शास्त्रं नीतिशास्त्रमुद्राह्यते उपन्यस्यत इति यत् । `उद्वाहितमुपन्यस्तम्` इति वैजयन्ती। सा। तदुद्वहणमित्यर्थः । विधेयप्राधान्यात् स्त्रीलिङ्गत्वम् । वक्तुरुद्वाहयितुः परिचयस्थैर्येऽभ्यासदार्ढ्ये हेतुर्गुणनिका । आम्रेडितमेवेति यावत् । न तु वैदुष्यप्रकटनमिति भावः । `गुण आम्रेडने` चौरादिकात् `ण्यासश्रन्थो युच्` (अष्टाध्यायी ३.३.१०७ ) इति युच् । ततः संज्ञायां कन् । कात्पूर्वस्येकारः
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
|---|---|---|---|---|---|---|---|
| वि | शे | ष | वि | दु | षः | शा | स्त्रं |
| य | त्त | वो | द्ग्रा | ह्य | ते | पु | रः |
| हे | तुः | प | रि | च | य | स्थै | र्ये |
| व | क्तु | र्गु | ण | नि | कै | व | सा |
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.