मल्लिनाथः
म्रदीयसीमिति ॥ कुशला वक्तारो म्रदीयसीमतिसुकुमाराक्षरां, श्लक्ष्णतरां च तथापि घनामर्थगुर्वीम्, अन्यत्र सान्द्राम् । कदलीदलकल्पामित्यर्थः । अनल्पैर्बहुभिर्गुणैः श्लेषादिभिः, तन्तुभिश्च कल्पिता रचितां, निर्मितां च चित्रां शब्दादिविचित्रां, विचित्ररूपां च वाचं पटीं शाटीमिव प्रसारयन्ति । रामवागप्येवंविधेति स्तुतिः, रामवाक् तु नैवंविधेति निन्दा च गम्यते । अत्र श्लेषस्य शुद्धविषयासंभवेन सर्वालंकारबाधकत्वादुपमाप्रतिभोत्थापितः प्रकृताप्रकृतश्लेषोऽयमित्यलंकारसर्वस्वकारः । एवं च पूर्णोपमाया निर्विषयत्वप्रसङ्गात् श्लेषप्रतिभोत्थापितेयमुपमैवेत्यन्ये
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
|---|---|---|---|---|---|---|---|
| म्र | दी | य | सी | म | पि | घ | ना |
| म | न | ल्प | गु | ण | क | ल्पि | ताम् |
| प्र | सा | र | य | न्ति | कु | श | ला |
| श्चि | त्रां | वा | चं | प | टी | मि | व |
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.