Loading data... On slow networks this could take a few minutes.
100%

संप्रत्यसांप्रतं वक्तुमुक्ते मुसलपाणिना ।
निर्धारितेर्ऽथे लेखेनखलूक्त्वा खलुवाचिकम् ॥

मल्लिनाथः संप्रतीति ॥ संप्रति मुसलपाणिना बलभद्रेण । केवलं शूरेणेति ध्वनिः । उक्ते सति वक्तुमसांप्रतमयुक्तम् । साधूक्तत्वादभ्याससमानयोगक्षेमप्रसङ्गादिति ध्वनिः । सांप्रतशब्दस्यार्हार्थत्वात्तद्योगे `शकघृष-` (अष्टाध्यायी ३.४.६५ ) , इत्यादिना तुमुन् । तथा हि लेख्येन पुत्रेणार्थे वाच्ये निर्धारिते निर्णीते सति वाचिकं व्याहृतार्थां वाचम् । संदेशवचनमित्यर्थः । `संदेशवाग्वाचिकं स्यात्` इत्यमरः । `वाचो व्याहृतार्थायाम्` (अष्टाध्यायी ५.४.३५ ) इति ठक् । उक्त्वा खलु । न वाच्यं खल्वित्यर्थः । खलुराद्यः प्रतिषेधे, अन्यो वाक्यालंकारे, `निषेधवाक्यालंकारजिज्ञासानुनये खलु` इत्युभयत्राप्यमरः । `अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा` (अष्टाध्यायी ३.४.१८ ) इति क्र्त्वाप्रत्ययः । इह `न पादादौ खल्वादयः` इति निषेधस्योद्वेजकाभिप्रायत्वात् , नञर्थखलुशब्दस्यानुद्वेजकत्वात् नञ्वदेव पादादौ प्रयोगे न दुष्यतीत्यनुसंधेयम् । लिखितार्थे वाचिकमिव बलोक्ते मदुक्तिरनवकाशेति वाक्यार्थप्रतिबिम्बकरणात् । स्पष्टस्तावद्दृष्टान्तः । स्तुतिव्याजेन निन्दावगमाद्व्याजस्तुतिश्च । लक्षणं चाग्रे वक्ष्यते
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सं प्र त्य सां प्र तं क्तु
मु क्ते मु पा णि ना
नि र्धा रि ते र्ऽथे ले खे
लू क्त्वा लु वा चि कम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.