भारतीमाहितभरामथानुद्धतमुद्धवः ।
तथ्यामुतथ्यानुजवज्जगादाग्रे गदाग्रजम् ॥

मल्लिनाथः भारतीमिति ॥ अथ कृष्णानुज्ञानन्तरमुद्धवः आहितो भरोऽर्थगौरवं यस्यां सा तां तथ्यां यथार्थां भारतींं वाचम् । अनुद्धतमगर्वितं यथा तथा गदस्याग्रजं कृष्णम् । अग्रे पुरत इति प्रागल्भ्योक्तिः । उतथ्यस्य महर्षेरनुजो बृहस्पतिः । `उतथ्यावरजो जीवः` इति विश्वः । तद्वत् तेन तुल्यं जगाद । `तेन तुल्यं क्रिया..चेद्वतिः` (अष्टाध्यायी ५.१.११५ ) इति वतिः । तद्धितगेयमुपमा
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
भा ती मा हि रा
था नु द्ध मु द्ध वः
थ्या मु थ्या नु
ज्ज गा दा ग्रे दा ग्र जम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.