तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरवम् ।
तत्प्रयोजककर्तृत्वमुपैति मम जल्पतः ॥

मल्लिनाथः तथापीति ॥ तथापि बलेन निर्णीतेऽपि । ते तव मय्यपि । बलभद् इवेत्यपिशब्दार्थः । गुरुरित्येव यद्गौरवमादरः तद्गौरवं जल्पतः जल्पने प्रयोज्यकर्मणो मे प्रयोजककर्तृत्वं प्रेरकत्वमुपैति । अतो वक्ष्यामीत्यर्थः । न हि पण्डितैः सादरं पृष्टस्य विशेषज्ञस्याज्ञवत्तूष्णींभावो युक्त इति भावः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
था पि न्म य्य पि ते
गु रु रि त्य स्ति गौ वम्
त्प्र यो र्तृ त्व
मु पै ति ल्प तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.