Loading data... On slow networks this could take a few minutes.
100%

निशम्य ताः शेषगवीरमभिधातुमधोक्षजः ।
शिष्याय बृहतां प्रत्युः प्रस्तावमदिशद्दृशा ॥

मल्लिनाथः &#३२; ` निशम्येति ॥ अधः कृतमक्षजमिन्द्रियजं ज्ञानं येन सोऽधोक्षजो हरिः ताः शेषस्य शेषावतारस्य बलभद्र्स्य गाः वाचः शेषगवीः । `गोरतद्धितलुकि` (अष्टाध्यायी ५.४.९२ ) इति टच् । टित्वान्ङीप् । निशम्य श्रुत्वा । `निशाम्यतीति श्रवणे तथा निशमयत्यपि` इति भट्टमल्लः । तत्र शाम्यतेरिदं रूपम् । अन्यथा निशमय्येति स्यात् । अत एव वामनः `निशम्य्यनिशमय्यशब्दौ प्रकृतिभेदात्` इति । बृहतांं वाचां पत्युर्बृहस्पतेस्तस्य शिष्यायोद्धवायाभिधातुं वक्तुं दृशा दृक्संज्ञया प्रस्तावमवसरमदिशदतिसृष्टवान् । `प्रस्तावः स्यादवसरः` इत्यमरः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नि म्य ताः शे वी
भि धा तु धो क्ष जः
शि ष्या बृ तां प्र त्युः
प्र स्ता दि द्दृ शा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.