इतिसंरम्भिणो वाणीर्बलस्यालेख्यदेवताः ।
सभाभित्तिप्रतिध्वनैर्भयादन्ववदन्निव ॥

मल्लिनाथः इतीति ॥ इतीत्थं संरम्भिणः क्षुभितस्य बलभद्रस्य वाणीरालेख्यदेवताश्चित्रलिखितदेवताः सभायाः सदोगृहस्य भित्तीनां प्रतिध्वानैः । प्रतिध्वनिव्याजेनेत्यर्थः । भयादन्ववदन्नन्वमोदयन्निवेत्युत्प्रेक्षा
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ति सं म्भि णो वा णी
र्ब स्या ले ख्य दे ताः
भा भि त्ति प्र ति ध्व नै
र्भ या न्व न्नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.