Loading data... On slow networks this could take a few minutes.
100%

गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः ।
हरिविप्रतिषेधं तममाचचक्षे विचक्षणः ॥

मल्लिनाथः गुर्विति ॥ अथोपवेशनानन्तरं विचष्टे इति विचक्षणो वक्ता । कर्तरि ल्युडिति न्यासकारः । `असनयोश्च प्रतिषेधो वक्तव्यः` (वा०) इति चक्षिङः ख्याञादेशाभावः । हरिर्गुर्वोः उद्धवरामयोः पितृव्यज्येष्ठभ्रात्रोर्द्वयाय । द्वाभ्यामित्यर्थः । गुरुणोर्महतोरुभयोः कार्ययोः पूर्वोक्तयोः तं विप्रतिषेधं विरोधमाचचक्षे आख्यातवान् । तुल्यबलविरोधो विप्रतिषेधः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
गु रु द्व या गु रु णो
रु यो का र्य योः
रि वि प्र ति षे धं
मा क्षे वि क्ष णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.