मल्लिनाथः
द्योतितेति ॥ कुन्दं माघभवः पुष्पविशेषः । `माध्यं कुन्दम्` इत्यमरः । कुन्दकुड्मलाग्राणीव दन्ता यस्य तस्य कुन्दकुड्मलाग्रदतः । `अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च` (अष्टाध्यायी ५.४.१४५ ) इत्यग्रान्तपूर्वपदबहुव्रीहेः समासान्तो वैभाषिको दतादेशः । तस्य हरेः सरस्वती अन्तःप्रधाना सभा अन्तःसभा । सभाभ्यन्तरमित्यर्थः । सा द्योतिता प्रकाशिता यैस्तैः स्मितैः स्नपितेव क्षालितेव । स्नातेर्ण्यन्तात् क्तः । `अर्तिह्री (अष्टाध्यायी ७.३.३६ ) इत्यादिना पुगागमः । मितां ह्रस्वः । शुद्धवर्णा स्फुटाक्षरत्वात् स्वच्छकान्तिरभवत् । अत्र स्वाभाविकवर्णशुद्धेः स्नानहेतुकत्वमुत्प्रेक्ष्यते । स्मितपूर्वाभिभाषी हरिरिति भावः
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
|---|---|---|---|---|---|---|---|
| द्यो | ति | ता | न्तः | स | भैः | कु | न्द |
| कु | ड्म | ला | ग्र | द | तः | स्मि | तैः |
| स्न | पि | ते | वा | भ | व | त्त | स्य |
| शु | द्ध | व | र्णा | स | र | स्व | ती |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.